梵文:अथ प्रज्ञापारमिताहृदयंसुत्रं

Atha prajna paramita hrdayam sutram
नमस् सर्वज्ञाय
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो
व्यवलोकयति स्म।
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म
इह शरिपुत्र रूपं शून्यता शून्यतैव रूपम्रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपम्
यद्रूपं सा शून्यता, या शून्यता तद्रूपमेवमेव वेदनासंज्ञासंस्कारविज्ञानानि
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा
अमलाविमअला नोना न परिपूर्णाः
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं
न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः
तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रन्तो निष्ठनिर्वाणः
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां
सम्यक्संबोधिं अभिसंबुद्धाः
तस्माज्जातव्यं प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रोऽनुत्तरमन्त्रोऽसमसममन्त्रः,
सर्वदुःखप्रशमनः
सत्यममिथ्यत्वात्प्रज्ञापारमितायामुक्तो मन्त्रः तद्यथा ।
गते गते पारगते पारसंगते बोधि स्वाहा
gate gate paragate parasamgate bodhi svaha.

इति प्रज्ञापारमिताहृदयं समाप्तम् ।

 



  Gaté Gaté Paragaté Parasamgaté Bodhi Svaha!

第3頁|全文共3頁
arrow
arrow
    創作者介紹
    創作者 KARMA 的頭像
    KARMA

    因果圓滿

    KARMA 發表在 痞客邦 留言(0) 人氣()